पापमाहुर्यः स्वसारं निगच्छात् ॥

पापमाहुर्यः स्वसारं निगच्छात् ॥ (अथर्ववेदः १८-१-१४) सम्पाद्यताम्

सहोदर्या सह शरीरसम्पर्कः पापाय ।

प्राणिषु महिला-पुरुषः इति जातिद्वयमेव विद्यते । अनेकेषु प्राणिवर्गेषु कुटुम्बव्यवस्थां पश्यामः यत्र एकः पुरुषः एकया सह एव सम्पर्कं संस्थाप्य अपत्यैः सह जीवति । मानवः अपि प्राणिषु एव अन्तर्भवति चेदपि तस्मिन् बुद्धिः, चिन्तनाशक्तिः विद्यते इत्यतः अन्येषां प्राणिवर्गाणां नियमाः न अन्वयन्ति । मानवसमाजे माता, पिता, अग्रजः, अनुजा, अग्रजा, अनुजः इत्यादयः सम्बन्धाः विद्यन्ते । शारीरकसम्पर्काय, सन्तानोत्पत्तये च विभिन्नाः नियमाः विद्यन्ते । उत्तमस्य सन्तानस्य प्राप्त्यै रक्तसम्बन्धाः न समीचीनाः । आनुवंशिकदोषाणां सम्भवः तत्र अधिकाः । बहुसमीपस्थाः रक्तसम्बन्धाः तु सङ्कराः इति उच्यन्ते । ते तु निषिद्धाः एव । निषिद्धेभ्यः सम्पर्केभ्यः, विकृतकामेन च भयानकाः मारणान्तिकाः रोगाः जगति प्रसार्यमाणाः सन्ति इत्येतत् दरीदृश्यते सर्वत्र ।