भूमेः उपरि वल्मीकनिर्माणं क्रियते पिपीलिकाभिः , हन्त तत्र वासः तावत् क्रियते सर्पेणा । एवम् एकेन परिश्रमः क्रियते अपरेण च तस्य फलं प्राप्यत इति भावः ।


पिष्टपेषणन्यायः

पिष्टं नाम चूर्णीकृतमेव पुनः पुनः पिष्यते चेत् किं फलम् ? एवमनावश्यकं व्यर्थं च कार्यं सूचयति अयं न्यायः ।

तुल्याः –मृतमरणन्यायः, जलताडनन्यायः

(लौकिकन्यायसाहस्री ११५-११६) सा. ३०१

"https://sa.wikiquote.org/w/index.php?title=पिपीलिकापन्नगन्यायः&oldid=17680" इत्यस्माद् प्रतिप्राप्तम्