जीवेश्वरयोः पुल्लिङ्गत्वे एव साम्यम् अन्यविषयेषु सर्वत्र भेद एवेति द्वैतवेदान्तिनां मतमस्ति ।

तुल्याः – शकुनिसूत्रन्यायः, नदीसमुद्रन्यायः, शुद्धोदलवणन्यायः, नानावुक्षरसन्यायः, इत्यादयः ।

यथा पक्षी च सूत्रं च नानावृक्षरसा यथा ।

यथा नद्यः समुद्रश्च शुद्धोदलवणे यथा ।

चोरापहार्यौ च यथा तथा पुंविषयावपि ।

तथा जीवेश्वरौभिन्नौ सर्वदैव विलक्षणौ । लौकिकन्यायसाहस्री (सा. ८१७-८३३)

"https://sa.wikiquote.org/w/index.php?title=पुंविषयन्यायः&oldid=10427" इत्यस्माद् प्रतिप्राप्तम्