पुण्येन पुण्यं लोकं नयति...

पुण्येन पुण्यं लोकं नयति, पापेन पापम्, उभाभ्यामेव मनुष्यलोकम् । - प्रश्नोपनिषत् ३-७

उदानः सुषुम्नानाडीद्वारेण पुण्येन कर्मणा पुण्यलोकं नयति, पापेन कर्मणा पापलोकं नयति, पुण्यपापमिश्रेण कर्मणा
मनुष्यलोकं नयति ॥

सर्वस्य मानवस्य शरीरे एकोत्तरशतसङ्ख्याकाः प्रधाननाड्यः वर्तन्ते । तासां मुख्या एका नाडी विद्यते, तस्याः
सुषुम्नानाडी इति नाम । तया नाड्या उदानवायुः प्राणोत्क्रमणं कारयति ॥

मानवानां प्रधानतया तिस्रो गतयो भवन्ति । शास्त्रविहितपुण्यकर्मानुष्ठायिनाम् उत्तमा गतिः, उत्तमं जन्म लभ्यते ।
पितरः, गन्धर्वाः, देवाः- तेषां लोकाः पुण्यलोकाः ॥

पापकर्मभिः, शास्त्रनिषिद्धकर्मभिः पापलोकान् प्राप्नोति । श्वानः, जम्बूकाः, सर्पाः, वृश्चिकाः, क्रिमिकीटाः – तेषां
जन्मानि पापलोकाः । पुण्यपापकर्मानुष्ठायिनां तु आगामिनि जन्मनि मनुष्यजन्मैव लभ्यते । कर्मानुगुणानि जन्मानि भवन्ति ॥