पुराकथानां श्रवणकाले ऎहिकसुखेषु वैराग्यं जायते । जगति सर्वं नश्वरम् इति भावना जागर्ति । परन्तु इयं भावना कियत्कालं यावत् तिष्ठेत् ? पुराणकथाश्रवणपर्यन्तमेव खलु । तदनन्तरं पुनः प्रापञ्चिकविषयेषु मोहः भवति । एवं तात्कालिकवैरागस्य सूचकोऽयं न्यायः ।

तुल्यः – श्मशानवैराग्यन्यायः ।

"https://sa.wikiquote.org/w/index.php?title=पुराणवैराग्यन्यायः&oldid=10423" इत्यस्माद् प्रतिप्राप्तम्