पुरुषः कीदृशो वेत्ति...
पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः ।
मध्यवर्णद्वयं त्यक्त्वा ब्रूहि कः स्यात् सुरालयः ॥
सर्वाः कलाः यः जानाति सः कः इति सम्बोध्यते ? तस्मिन् शब्दे मध्ये स्थितम् अक्षरद्वयं यदि निष्कास्येत
तर्हि स्वर्गः इति अर्थः प्राप्यते । कः सः शब्दः ?
उत्तरम्
नागरिकः