पुरुषान्न परं किञ्चित्...

पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः । - काठकोपनिषत् १-३-११

पुरुषात् न परं किञ्चिदप्यस्ति । सा काष्ठा, सा एव परा गतिश्च ॥

अस्मिन् विशाले प्रपञ्चे ‘तारतम्यं’ सर्वक्षेत्रेष्वपि दृश्यते । न हि कश्चिदपि पदार्थः अन्तिमनिर्णयत्वेन
दृश्यते । ‘मीनात् मीनः’, ‘वृक्षात् वृक्षः’ इतिवत् एकस्मात् अपरः महत्तरः मनुष्यः अस्त्येव । वैषम्यं
तारतम्यमेव हि अस्य प्रपञ्चस्य स्वभावः ॥

अपि तु वेदान्तप्रतिपादितात् पुरुषात् परं महत्तरं वस्तु न किञ्चिदस्ति । पाञ्चभौतिकात् शरीरात् इन्द्रियाणि
सूक्ष्माणि, इन्द्रियेभ्यः प्राणः श्रेष्ठः, प्राणाच्च मनः श्रेष्ठम्, मनसोऽपि बुद्धिः श्रेष्ठा, बुद्धेरपि समष्टिरूपः
हिरण्यगर्भः सूक्ष्मः श्रेष्ठः, व्यापकश्च । सर्वेभ्योऽपि एतेभ्यः पुरुषः श्रेष्ठः सूक्ष्मः व्यापकश्च ॥

पूर्णम् अनेन सर्वम् इति पुरुषः । अनेनैव हि समस्तमपि विश्वं परिपूर्णम् । पुरि शेते इति वा पुरुषः । अस्मासु
एव वर्तते इति पुरुषः । पुरुषात् श्रेष्ठः पुरुषेण समः अन्यो नास्ति । अयमेव हि परमः पुरुषः ॥