पुरुषोऽमानवः, स एनान् ब्रह्म...

पुरुषोऽमानवः, स एनान् ब्रह्म गमयति, एष देवपथः ब्रह्मपथः, एतेन प्रतिपद्यमानाः
इमं मानवम् आवर्तं नावर्तन्ते नावर्तन्ते । - छान्दोग्योपनिषत् ४-१५-५

अमानवः पुरुषः इमान् उपासकान् ब्रह्मलोकं गमयति, अयमेव देवयानमार्गः । अयमेव च
ब्रह्ममार्गः । अनेन देवयानमार्गेण ये प्रयान्ति, ते इमं मानवं जन्म पुनः न प्रतिपद्यन्ते ॥

नैष्ठिकब्रह्मचारिणां तथा संन्यासिनां सतां ब्रह्मोपासकानां साधकानाम् उपदिष्टोऽयं देवयानमार्गः ।
अत्र ब्रह्मशब्देन उपास्यम् अपरं ब्रह्म । ब्रह्मलोकस्थं हिरण्यगर्भं ये उपासते, तेषाम् एतद्देह पतनानन्तरं
प्राप्यः गतिप्रकारः अत्र उपदिश्यते । अमानवः पुरुषः एतानुपासकान् मरणानन्तरम् अपरस्य
ब्रह्मणः समीपं नयति ॥

शवसंस्कारेण कृतेन वा अकृतेन वा एतेषाम् उपासकानां ब्रह्मलोकगमने न कोऽपि विघ्नः
सम्भवेत् । एतेषां मार्गः राजमार्गः, एतेषां गतिः उत्तरायणगतिः । एते क्रमेण ब्रह्मलोकं
गत्वा तत्र ब्रह्मणा सह उषित्वा, तेनैव सह मुक्ताः भविष्यन्ति । तस्मात् न ते शरीरान्तरग्रहणाय
प्रत्यावर्तन्ते । इयमेव हि विदेहमुक्तिः ॥