पूजायां किं पदं प्रोक्तं...

पूजायां किं पदं प्रोक्तं किं वा पुरुषवाचकम् ।
क आयुधतया ख्यातः प्रलम्बासुरविद्विषः ॥

'सु' - इत्येतत् उत्तमार्थे प्रोक्तम् । 'ना' - पुरुषवाचकम् । प्रलम्बासुरस्य शत्रोः बलरामस्य
आयुधम् - 'सीरः' (हलः) ।

उत्तरम्

सुनासीरः