पूर्वाहणच्छायान्यायः

प्रातः काले पदार्थानां च्छाया आदौ दीर्घा भूत्वा क्रमेण लघ्वी भवति । तथा खलैः कृता मैत्री अपि आदौ दीर्घा कालक्रमणे च हृस्वा भवतीति भावः ।

यथा –दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥

भर्तृहरिनीतिशतके ५८

तुल्यः –पराहणछायान्यायः (४२०)