प्रणवो धनुः शरो...
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । - मुण्डकोपनिषत् २-२-४
प्रणव एव धनुः, आत्मैव शरः, ब्रह्मैव लक्ष्यम्, अप्रमत्तः सन् लक्ष्ये शरं योजयेत् ।
साधकैः ब्रह्मणि एकता प्राप्तव्या । परब्रह्मणः आत्मनश्च अभेदो द्र्ष्टव्यः । सर्वासाम्
उपनिषदां सन्देशोऽयम् । अभेदं प्राप्तुम् अनेके मार्गाः वेदान्तेषु उपदिष्टाः सन्ति ।
प्रकृतोऽयं मन्त्रः ओङ्कारद्वारा ब्रह्मणि अभेदप्राप्तिं दर्शयति ॥
ओङ्कारः धनुर्भवेत् । शरं लक्ष्ये प्रवेशयितुं, योजयितुं धनुः अवश्यं खलु ? धनुषि
हि शरः संधेयः ? तथैव जीवात्मरूपं शरं ब्रह्मरूपे लक्ष्ये ताडयितुं धनुर्नाम ओङ्कार
एव । जीव एव शरः । देहाद्युपाधिभिः उपलक्षितः जीवः अस्मिन् देहे, ‘अहम् अहम्’
इतिरूपेण अवभासते खलु ? अयमेव शरः । ब्रह्मैव गन्तव्यं लक्ष्यम् । जीवः जीवत्वं
विहाय निरुपाधिके ब्रह्मणि एकत्वं प्राप्नुयात् । ओङ्कारोपासनेन कल्पितं जीवत्वं
त्यक्त्वा साधकेन स्वरूपभूते ब्रह्मणि ऎकाग्य्रेण जीवः प्रविलापयितव्यः ॥