प्रतिबोधविदितं मतम्...
प्रतिबोधविदितं मतम् अमृतत्वं हि विन्दते । - केनोपनिषत् २-४
सर्वमानसप्रत्ययानां साक्षित्वेन यदा आत्मा विज्ञातो भवति, तदैव सः सम्यग् विदितो भवति ।
ततो अमृतत्वं प्राप्नोति ॥
मनसि शतशः सहस्रशः लक्षशः प्रत्ययाः जायन्ते च नश्यन्ति च । अत्यन्तचञ्चलस्य अस्य मनसः
व्यापारान् निरोद्धुं वा गणयितुं वा न केनापि शक्यते । अपि तु एतेषां प्रत्ययानां साक्षिभूतं कूटस्थम्
आत्मानम् प्रत्यभिज्ञातुं सर्वेणापि शक्येत । मनसि जायमानानां सुखदुःखे, भयाश्चर्ये, शोकमोहौ,
रागद्वेषौ, कामक्रोधादीन् प्रत्ययान् निर्विकारतया प्रकाशमानं चैतन्यं तु एकमेव अस्ति खलु ?
अस्यैव वेदान्तेषु आत्मा, ब्रह्म इति नामधेयम् ॥
मनसोऽपि मनस्त्वेन, मनसः, विकारान् प्रकाशमानः, स्वतः अविकारी, मनःप्रत्ययविदूरः,
नित्यशुद्धनित्यबुद्धनित्यमुक्तस्वरूपः आत्मा अहमेव इतिज्ञानमेव ‘आत्मज्ञानं’ भवति । अनेन
ज्ञानेन अमृतत्वं मोक्षम् इहैव प्राप्नोति मुमुक्षुसाधकः ॥