प्रत्यहं प्रत्यवेक्षेत...

सुभाषितम्

प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः ।
किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥

pratyahaṃ pratyavekṣeta naraścaritamātmanaḥ ।
kiṃ nu me paśubhistulyaṃ kiṃ nu satpuruṣairiti ॥

पदच्छेदः

प्रति-अहं, प्रति-अवेक्षेत, नरः, चरितम्, आत्मनः, किं, नु, मे, पशुभिः, तुल्यं, किं, नु, सत्पुरुषैः, इति ।


तात्पर्यम्

'मम व्यवहारेषु कः पशोः इव, कः सत्पुरुषस्य इव अस्ति' इति प्रतिदिनं मानवः स्वस्य व्यवहारं परिशीलयेत् ।


आङ्ग्लार्थः

Every day one should introspect one's own behaviour and see what are qualities in me that resemble with animal ('pashu') characteristics and what are the qualities that resemble with the qualities of a noble person. ('satpurusha').