सुभाषितम्

प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ।
असामर्थ्यफला ह्यन्ते निर्गुणेषु सतां गुणाः ॥
रामायणम् युद्धकाण्डः २१/१४




तात्पर्यम्

शान्तिः, क्षमागुणः, सरलता, मधुरभाषणम् - एते सज्जनानां सद्गुणाः भवन्ति । किन्तु दुष्टाः एते दुर्बलतायाः लक्षणानि इति मन्यन्ते ।

"https://sa.wikiquote.org/w/index.php?title=प्रशमश्च_क्षमा_चैव...&oldid=15355" इत्यस्माद् प्रतिप्राप्तम्