प्रस्तावसदृशं वाक्यं...

सुभाषितम्

प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम् ।
आत्मशक्तिसमं कोपं कुर्वाणो नावसीदति ॥

चाणक्यनीतिः १४-१५

prastāvasadṛśaṃ vākyaṃ sadbhāvasadṛśaṃ priyam ।
ātmaśaktisamaṃ kopaṃ kurvāṇo nāvasīdati ॥

पदच्छेदः

प्रस्तावसदृशं, वाक्यं, सद्भावसदृशं, प्रियम्,आत्मशक्तिसमं, कोपं, कुर्वाणः, न, अवसीदति ॥


तात्पर्यम्

सन्दर्भोचितं वचनं यः वदति, उत्तमभावानुगुणं सत्कार्याणि यः करोति, स्वस्य सामर्थ्यानुगुणं यः कुप्यति सः कदापि अधोगतिं न प्राप्स्यति ।


आङ्ग्लार्थः

The wise person talks according to the occasion, speaks in accordance with dignity, and becomes furious according to his power.