प्राणो वाव संवर्गः, प्राणमेव वागप्येति, प्राणां चक्षुः, प्राणं श्रोत्रं, प्राणं मनः,
प्राणो ह्येव एतान् सर्वान् संवृङ्क्ते । - छान्दोग्योपनिषत् ४-३-३

प्राण एव संवर्गः । निद्रासमये वागिन्द्रियं प्राणमेव अप्येति । नेत्रमपि प्राणमेव अप्येति,
श्रोत्रमपि प्राणमेव अप्येति, मनश्च प्राणमेव अप्येति । प्राण एव हि सर्वमेतत् आत्मनि संवर्जयति ॥

अस्य प्राणसंवर्गविद्या इति नाम । अत्र प्राणो नाम मुख्यः प्राणः । अयमेव आधिभौतिकदृष्ट्या
वायुर्भवति, आधिदैविकदृष्ट्या हिरण्यगर्भो भवति । अत्र प्रकृते आध्यात्मिकस्य प्राणस्य उपासनम्
इदमुच्यते । वाक् श्रोत्रनेत्रादीनि ज्ञानेन्द्रियाणि, मनो नाम अन्तरिन्द्रियम् – इत्येतत् सर्वं निद्राकाले
प्राणमेव अप्येति । सकलेषु इन्द्रियेषु प्रलीनेषु एक एव प्राणः जागर्ति; अयं प्राण एव ब्रह्म, प्राण एव
राजा, प्राण एव च सर्वं भवति । अस्मिन्नेव प्राणे जगत् सर्वं लीयते । संवर्जनात्, आत्मनि उपसंहारात्
संवर्गः प्राणः । तस्मात् इममेव प्राणं ‘संवर्गाः’ इति साधकः उपासीत ॥

"https://sa.wikiquote.org/w/index.php?title=प्राणो_वाव_संवर्गः...&oldid=16371" इत्यस्माद् प्रतिप्राप्तम्