प्राणो वै ग्रहः, वाग्वै ग्रहः...

प्राणो वै ग्रहः, वाग्वै ग्रहः, जिह्वा वै ग्रहः, चक्षुर्वै ग्रहः, श्रोत्रं वै ग्रहः,
मनो वै ग्रहः, हस्तौ वै ग्रहः, त्वग्वै ग्रहः । - बृहदारण्यकोपनिषत् ३-२-२

जारत्कारवेण आर्तभागेन पृष्टः याज्ञवल्क्यः उवाच । अष्टौ ग्रहाः इति । ते च – प्राणः,
वाक्, जिह्वा, नेत्रम्, श्रोत्रम्, मनः, हस्तौ, त्वक् च ग्रहाः ॥

अस्यां बृहदारण्यकोपनिषदि इन्द्रियाणि ‘ग्रहाः’ इति, विषयाः ‘अतिग्रहाः’ इति च
व्यपदिश्यन्ते । अष्टौ ग्रहाः, अष्टौ अतिग्रहाश्च भवन्ति । नेत्रम्, श्रोत्रम्, नासिका,
जिह्वा, चर्म, वाक्, मनः, हस्तौ च इति अष्टौ इन्द्रियाणि अष्टौ ग्रहाः उच्यन्ते ।
शब्दादिविषयग्रहणात् इन्द्रियाणि ग्रहाः । इमे वेदान्तेषु अष्टौ ग्रहाः ॥

एते इन्द्रियरूपाः अष्टौ ग्रहाः मानवान् स्वाभिमुखान् आकर्षन्ति । इन्द्रियाणाम् अनधीनः
मनुष्य एव नास्ति इत्युक्ते नासाधु वचनम् । इन्द्रियाणां शक्तिसामर्थ्यम् अद्भुतम् ।
साधकश्रेष्ठान् तपस्विपुङ्गवानपि बलवन्ति इन्द्रियाणि स्वाधीनान् कुर्वन्ति । अत एव
कारणात् इन्द्रियाणि ग्रहाः (गृह्णन्ति इति ग्रहाः) इति उच्यन्ते ॥