प्रायेण नीचलोकस्य...
प्रायेण नीचलोकस्य कः करोतीह गर्वताम् ।
आदौ वर्णद्वयं दत्त्वा ब्रूहि के वनवासिनः ॥
निकृष्टजनानां मनसि कस्मात् वस्तुनः अहङ्कारः उत्पद्यते ? तस्य आदौ वर्णद्वयं यदि योज्यते
तर्हि 'वनवासिनः' इत्येषः अर्थः भवेत् । किं तत् ? राः - धनम् । श, ब इत्येतत् अक्षरद्वयं
योजनीयम् ।
उत्तरम्
शबराः