सुभाषितम्

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥

priyavākya pradānena sarve tuṣyanti jantavaḥ ।
tasmāt tadeva vaktavyaṃ vacane kā daridratā ॥

पदच्छेदः

प्रियवाक्यप्रदानेन, सर्वे, तुष्यन्ति, जन्तवः, तस्मात्, तत्, एव, वक्तव्यम्, वचने, का, दरिद्रता ॥


तात्पर्यम्

मधुरवचनेन सर्वे प्राणिनः प्रसन्नाः भवन्ति । अत एव मानवः सर्वदा मधुरं वचनम् एव वदेत्, वचने दरिद्रता न करणीया ।


आङ्ग्लार्थः

All beings are pleased when kind words are offered. Hence speak only thus. Is there a scarcity for good words?

"https://sa.wikiquote.org/w/index.php?title=प्रियवाक्य_प्रदानेन...&oldid=17241" इत्यस्माद् प्रतिप्राप्तम्