प्रेतो मुञ्चामि ॥ (अथर्ववेदः १४-१-१७) सम्पाद्यताम्

इतः अग्रेगमनाय मुञ्चामि ।

प्र + इतः = प्रेतः । विद्यमाने स्थले एव यदि तिष्ठेम तर्हि स्थितं जलमिव दुर्गन्धयुताः भवेम । जीवनं विकासशीलं, प्रगतिशीलं च । धन-अधिकारादिभिः भौतिकविचारदृष्ट्या न । मनः भौतिकाकर्षणेषु इन्द्रियसुखेषु एव आवृतं चेत् आत्मनः विचारः विस्मृतः इव । मनः अतीते भूतकाले लग्नं चेत्, व्यक्तिपूजा-संस्थाबन्धेषु युक्तञ्चेत् आत्मोन्नतिमार्गस्य दर्शनं दुष्करमेव स्यात् । अग्रेगमनाय एताभिः शृङ्खलाभिः मुक्तिः अवश्यं प्राप्तव्या । सत्यान्वेषणस्य औत्सुक्यम्, असत्यस्य त्यागः, पूर्वाग्रहैः मुक्तं मनः च आत्मनः पुरतः प्रकाशं प्रसारयन्ति । आत्मा अग्रे सरति । श्रेष्ठव्यक्तीनां चिन्तनं जीवनस्य प्रेरणायै भवेत् इति तु सत्यं किन्तु ताभिः व्यक्तिभिः बद्धाः न भवेम । तैः दर्शिते मार्गे अग्रे सरणीयम् । आरम्भस्तरे कदाचित् साङ्घिकशक्तेः आवश्यकता भवेत् चेदपि तत् मार्गावरोधाय यथा न स्यात् तथा जागरूकता वोढव्या । बन्धनैः मुञ्चिताः चेदेव अग्रे गमनं साध्यम् ।
"https://sa.wikiquote.org/w/index.php?title=प्रेतो_मुञ्चामि_॥&oldid=1815" इत्यस्माद् प्रतिप्राप्तम्