प्रेयो मन्दो योगक्षेमाद्...

प्रेयो मन्दो योगक्षेमाद् वृणीते । - काठकोपनिषत् १-२-२

मन्दः योगक्षेमार्थं प्रेय एव वृणीते ।

लोके मनुष्यान् ‘बालाः’ ‘वृद्धाः’ (बुद्धिमन्तः) इति द्वेधा विभजन्ति ।
दशवर्षपर्यन्तान् ‘बालाः’ इति, दशोत्तरसंवत्सरपरिमितान् मानवान्
‘बुद्धिमन्तः’ इति च वयं कथयामः । अप्रबुद्ध-बुद्धिमन्तः,
अपर्याप्तविचारवन्तः, विवेकचिन्तनशक्तिरहिता एव बाला उच्यन्ते ।
विवेकविचारसामर्थ्यवन्तः वृद्धाः इति कथ्यन्ते । चाकोलेट्, केक्,
बिस्कत्, ब्रेड, बन् इत्यादयः बालानां प्रियाः भवन्ति । न तु
स्वर्णहारः, धनम्, निवेशनम्, गृहादिसम्पदः इष्टा भवन्ति । यदा
एते एव बाला वर्धमानाः बुद्धिमन्तो भवन्ति तदा एतेषामेव सैकल्,
स्कूटर, टि.वि, कार्, प्रमुखाः सर्वेऽपि पदार्थाः अपेक्ष्यन्ते । यतो हि
एते इदानीं बुद्धिमन्तः ॥

एवमेव वेदान्तेऽपि साधकाः ‘मन्दाः’, ‘धीराः’ इति विभज्यन्ते ।
एते यद्यपि साधका एव तथापि मन्दसाधकाः केचित्, धीरसाधकाः
केचित् । अनित्यफलप्रेप्सवो मन्दाः । एते एव बालाः मूढाः,
अविवेकिनः, कृपणाश्च इति उच्यन्ते ॥