अदृढाः प्लवाः एते

प्लवा ह्येते अदृढा यज्ञरूपाः । - मुण्डकोपनिषत् १-२-७

यज्ञयागादिकर्मरूपाः एते प्लवाः अदृढाः ।

अस्मिन् जन्मजरामरणरूपे संसारसागरे पतिताः मानवाः ।
अस्मात् सागरात् आत्मानं तारयितुं दृढाः प्लवा एव अपेक्षिताः ।
स प्लवो नाम आत्मज्ञानमेव । वेदान्तोपदिष्टेन आत्मज्ञानमात्रेणैव
अस्मात् दुःखरूपात् संसारात् ऊर्ध्वम् आगत्य मोक्षं प्राप्य मानवः
कृतार्थो भवेत् । आमज्ञानविहीनः सन् केवलकर्मोपासननिष्ठश्चेत्
तावता संसारसागरं नूनमपि नैवासौ तरेत् ॥

इयं मुण्डकश्रुतिः यज्ञयागादीनि कर्माणि ”अदृढाः प्लवाः” इति
उद्घोषयति । केवलकर्मभिः अभ्युदयफलानि लभ्येरन्, न तु
मुक्तिः लभ्येत । फलप्राप्त्यर्थं हि सर्वे मानवाः सर्वाणि कर्माणि
कुर्वते । केवलकर्मनिष्ठस्य विवेको वा वैराग्यं वा नैव लभ्यते ।
दूरत एव तत्त्वविचारः । अस्य आत्मज्ञानं वा मोक्षो वा लभ्यते
किम् ? नैव, नैव । मानवेन विवेकिना विचारपरेण भाव्यम्, ततः
आत्मज्ञानप्राप्त्यर्थं मानवेन धीरेण भाव्यम् इत्याशयः ॥

"https://sa.wikiquote.org/w/index.php?title=प्लवा_ह्येते_अदृढा...&oldid=16597" इत्यस्माद् प्रतिप्राप्तम्