ब्रह्मजज्ञं देवमीड्यं...

ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति । - काठकोपनिषत् १-१-१७

परमात्मजातम् ईड्यं देवं विदित्वा सम्पूज्य, उपास्य परमां शान्तिम् एति ।

विराटपुरुषः, प्रथमजः, हिरण्यगर्भः, ब्रह्मा – इत्यादयः शब्दाः उपनिषत्सु दृश्यन्ते । अयमेव
‘अपरं ब्रह्म’ इति च कथ्यते । अयं हि परस्मात् ब्रह्मणः जातः प्रप्रथमः प्राणी । अयमेव च
समष्टिरूपः सर्वकरणोपाधिकः सूक्ष्मातिसूक्ष्मः सोपाधिकः आत्मा । एष एव ’चेतनभूता
परा प्रकृतिः’ इति च कथ्यते ॥

परं ब्रह्म निर्विशेषम्, अयं हिरण्यगर्भस्तु सविशेषः । सर्वप्राणिनाम् आत्मभूतोऽयम् । सर्वकर्माणि
विहाय सदा विराट् पुरुषोपासनपराणां नैष्ठिकब्रह्मचारिणां तुरीयाश्रमिणां संन्यासिनां च मरणानन्तरं
ब्रह्मलोकप्राप्तिः फलं भवति । तत्र ब्रह्मलोके ब्रह्मणा सह उषित्वा उपासकाः तत्रस्थान् सकलान्
भोगान् अनुभवन्ति । तत्र आत्मज्ञाने जाते सति ते मुक्ता एव भवन्ति ॥