ब्रह्मवादिनो वदन्ति किं कारणं ब्रह्म...

ब्रह्मवादिनो वदन्ति किं कारणं ब्रह्म कुतः स्म जाताः ? जीवाम केन क्व च सम्प्रतिष्ठाः ?
अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ - श्वेताश्वतरोपनिषत् १-१

ब्रह्मविदः एवं परस्परं विचारं कुर्वन्ति । तद्यथा, किम् अस्य जगतः ब्रह्म कारणम् ? वयं कस्मात्
जाताः ? केन जीवामः ? कुत्र गत्वा संविशामः ? सुखदुःखानुभवः कथं भवति ? अस्य जगतः व्यवस्था
कथं भवति ? इत्यादिक्रमेण ॥

अस्माकम् भारतीयसंस्कृतेः महिमानम् अयं मन्त्रः दर्शयति । पुराकाले चत्वारः पञ्च वा ऋषयः, तपस्विनः,
संन्यासिनः अथवा महात्मानः एकत्र मिलिताः सन्तः परमेव ब्रह्म अधिकृत्य परस्परम् अन्योन्यं विचारं कुर्वन्तः
आसन् । न तु लौकिकविषयान् अधिकृत्य । लौकिकवस्तुविचारेण पुनः पुनः दुःखमेव प्राप्यते खलु ?

आत्मविचारेण तु आनन्दः प्राप्यते । ब्रह्म–देव–भगवत्परमात्मविचारेण हि अस्माकम् अविद्या दूरीक्रियते ।
ब्रह्मविचारो हि वेदान्तेषु क्रियते । जगद्ब्रह्मणोः सम्बन्धः अस्माकमपि अन्वयीभवति । परस्य ब्रह्मणो विचारेणैव
कल्याणं, शान्तिः, आनन्दश्च प्राप्यते ॥