ब्रह्मैवेदम् अमृतं पुरस्तात्...

सर्ववेदान्तानां सारमन्त्रोऽयम्

ब्रह्मैवेदम् अमृतं पुरस्तात्
ब्रह्म पश्चात् ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्वं च प्रसृतं
ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ - मुण्डकोपनिषत् २-२-१२

पुरस्तात् इदम् अमृतं ब्रह्मैव, पश्चात् ब्रह्म, दक्षिणतश्च ब्रह्मैव,
उत्तरेण च ब्रह्म, अधश्च ब्रह्मैव प्रसृतम्, ऊर्ध्वं च ब्रह्मैव; इदं विश्वं
वरिष्ठं ब्रह्मैव ॥

समस्तस्यापि वेदान्तदर्शनस्य सारं सरलतया तथा सुन्दरतया उपदिशति
अयं मन्त्रः । “इदं विश्वं सर्वमपि परिपूर्णं ब्रह्मैव” – इत्येतावानेव सर्वेषां
वेदान्तानां सन्देशः । सर्वोपनिषदां सन्देशसारः सर्वः एतावानेव ॥

अस्मत्पुरतः, पश्चाच्च दृश्यमानाः सर्वेऽपि पदार्थाः परब्रह्मैव । न केवलं
पुरतः पश्चाच्च दृश्यमानानि वस्तूनि परब्रह्म इति, किन्तु दक्षिणतः, उत्तरतः
इत्येदपि ब्रह्मैव इत्यर्थः । पुरतः, पश्चात्, दक्षिणतः, उत्तरतः, अधस्तात्,
ऊर्ध्वम्, अन्तः, बहिः इति सर्वं ब्रह्मैव ॥