ब्रह्म वा इदमग्र आसीत्...

ब्रह्म वा इदमग्र आसीत्, तदात्मानमेवावेत् ‘अहं ब्रह्मास्मि’ इति । तस्मात् तत् सर्वमभवत् ॥ - बृहदारण्यकोपनिषत् १-४-१०

अग्रे इदं सर्वं ब्रह्मैव आसीत् । तद् ब्रह्म आत्मानमेव 'अहं ब्रह्मास्मि' इति अजानात् । तेन तद् ब्रह्म सर्वम् अभवत् ॥

'अहं ब्रह्मास्मि' इत्येतत् एकं महावाक्यम् । शुक्लयजुर्वेदीयायाः बृहदारण्यकोपनिषदः सारभूतोऽयं मन्त्रः 'अहं ब्रह्मास्मि' इति ।
अयं मन्त्रः जीवब्रह्मणोः ऎक्यम् उपदिशति । प्रज्ञानं ब्रह्म, अहं ब्रह्मास्मि, तत्त्वमसि, अयमात्मा ब्रह्म, इति हि चत्वारि वाक्यानि
वेदान्तमहावाक्यानि इति सुप्रसिद्धानि सन्ति । कल्पितं जीवत्वम् अपोद्य अस्य जीवस्य ब्रह्मत्वम् उपदिशन्ति एते मन्त्राः ॥

‘अहं ब्रह्मास्मि’ इत्यत्र ‘अहं’ इति जीवः, ‘ब्रह्मास्मि’ इति चिन्मात्रं तत्त्वम्, अस्मि इत्यर्थः । नाहं जीवः, किं तु ब्रह्मैवास्मि इत्यर्थः ।
जीवभावः आविद्यकः कल्पितः, आभासमात्रः । ब्रह्मस्वरूपमेव सहजं, पारमार्थिकम् । विचारे कृते एतत् स्पष्टतया ज्ञायते ।
वेदान्तवाक्यार्थविचारेण इदं रहस्यं ज्ञायते ॥