ब्राह्मणवसिष्ठन्यायः
“ब्राह्मणोऽपि आयातः वसिष्ठोऽपि आयातः” इत्युक्तं चेत् ब्राह्मणशब्देन वसिष्ठस्य अपि ग्रहणं भवति चेत् किमर्थं वसिष्ठशब्दस्य पृथकप्रयोगः ? इत्युक्ते वसिष्ठभिन्नस्य ब्राह्मणस्य उल्लेखः अभिप्रेत इति गृह्यते ।
यथा – ‘हलन्त्यम्’ इति पाणिनिसूत्रेण (१-३-३१) व्यवसितानाम् अन्त्याः हलः इत्संज्ञकाः इति बोध्यते । व्यवसितेषु धातु –प्रातिपदिक –प्रत्यय-निपात- आगम- आदेशानां ग्रहणं क्रियते । प्रातिपदिकशब्देनैव निपातस्य अपि ग्रहणं भवति चेदपि तस्य पृथक् उल्लेखः अनया रीत्या ज्ञेयः ।
यथा – मनुस्मृतिमेधातिथिटीकायाम् ७-३५
तृल्यः तक्रकौण्डिन्यन्यायः