भयादस्याग्निस्तपति भयात् तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ - काठकोपनिषत् २-३-३

अस्य परमात्मनः भयादेव अग्निः तपति, सूर्यः तपति । अस्य आत्मनः भयादेव
इन्द्रश्च वायुश्च स्वव्यापारं कुरुतः । अत्र क्रमसङ्ख्यया पञ्चमः मृत्युरपि
अस्य भयादेव प्राणिनां प्राणं हरति ॥

अग्नि सूर्य इन्द्र वायु मृत्यु देवतानां वेदपुराणेषु अद्भुतं स्थानं श्रेष्ठां योग्यतां च वर्णयन्ति ।
एतासां देवतानां सामर्थ्यं वेदेषु विस्तरतः वर्ण्यते । एतासां देवतानाम् आराधनेन
मानवानां विशेषफलानि च भवन्त्येव । एतासां देवतानाम् अणिमाद्याः अष्टौ सिद्धयः,
तथा निग्रहानुग्रहादिसामर्थ्यानि च नूनं भवन्ति ॥

सर्वमप्येतत् सत्यमेव, तथापि नैव ते देवाः स्वतन्त्राः । नैव तेषाम् अधिकारः शाश्वतः ।
नैव ते परं ब्रह्म भवितुम् अर्हन्ति । सूर्यादयः स्वस्वकार्याणि साधु सम्यक् कुर्वन्ति खलु ?
कुतः ? भगवतो भयात् । भगवानेव एषां दाता धाता च । सः मृत्योरपि मृत्युः । अतः
यमस्यापि परमात्मभयम् अस्त्येव ॥

"https://sa.wikiquote.org/w/index.php?title=भयादस्याग्निस्तपति...&oldid=16315" इत्यस्माद् प्रतिप्राप्तम्