भर्छुन्यायः
कस्यचिद् राज्ञः भर्छुनामकः मन्त्री आसीत् दूरदेशे चोराणां नियन्त्रणार्थं राजा तम् देशान्तरं प्रेषितवान् । भर्छुः चोराणां सम्यक् निग्रहणं कृतवान् । परन्तु स्वदेशे अपि शत्रवः गूढरुपेण वर्तन्ते इति सः जानाति स्म । अतः चोराः भर्छुमन्त्रिणं मारितवन्त इति किंवदन्तीं सः स्वविषये सर्वत्र प्रसारितवान् । एतत् श्रुत्वा राजा अपरस्य मन्त्रिणः नियुक्तिं कृतवान् । कतिपयदिवसानन्तरं भर्छुः स्वराज्यं प्रति प्रस्थितः मार्गे एव सः अपरस्य नियुक्तिः जाता इति ज्ञातवान् । ततः विरक्तः भूत्वा वनवासम् आरब्धवान् । तदा जनाः क्वचित् तं दृष्टवा मृतः भर्छुः पिशाचः अभवत् इति भावितवन्तः राजानं च कथितवन्तः । राजा च कालान्तरे वनं गत्वा भर्छुन दृष्ट्वा अयं पिशाचः अभवत् इति निश्चितवान् ।
एकदा जातम् अपयशः वज्रलेपवत् भवति इति अनेन बोध्यते । तुल्यः भैरवप्रियनाथः । (सा. ३९४)