भल्लृककम्बलभ्रान्तिन्यायः

कदाचित् जलप्रवाहे एकः महान् वृक्षः वहति स्म । तस्य उपरि एकः भल्लूकः अपि स्थितः वुक्षस्य आश्रयेण जलप्रवाहात् आत्मानं रक्षितुं तथा स्थितं तं दूरात् कम्बलं मतवन्तः केचन । तेषु द्वौ महता प्रयत्नेन जलप्रवाहे आत्मानं पातयित्वा तीर्त्वा च वृक्षस्य समीपं गतवन्तौ । यदा तौ वृक्षं गृहीतवन्तौ

तदा भल्लूकः तयोः उपरि प्रहारं कृत्वा तौ अमारयत् । एवं भ्रान्तिः भवति चेत् महती हानिः भवतीति भावः|