भस्मच्छन्नाग्निन्यायः

अग्निः यदि भस्मावृतः भवति तदा तत्र केवलं भस्म वर्तते न तु अग्निरिति भाति । परन्तु अन्तः अग्निः ज्वलति एव । एवं तेजस्विनः पुरुषस्य जीवने जातैः सङ्कटैः तस्य तेजः क्वचित आच्छादितं भवेत् चेदपि तस्य तेजस्वी स्वभावः नष्टो न भवति समये प्रकाशते इति अनेन बोध्यते ।