भाण्डानुसारिस्नेहन्यायः

चन्द्रलोकादि –लोकेषु कञ्चित् कालं यावत् वासं कृत्वा ततः प्रत्यागमनसमये मनुष्यः स्वकर्मणः कमपि अनुशयं स्वेन सह नयति वा इति प्रश्ने जाते शङ्कराचार्याः अनुशयं मनुष्यः आनयति इति समाहितवन्तः । यथा भाण्डात् तैलं पूर्णरुपेणा निष्कासितं चेदपि भाण्डस्य अन्तः कश्चन स्नेहविशेषो भवत्येव ।

यथा- कः पुनरनुशयो नामेति । केचित्तावदाहुः । स्वर्गस्थज्ञस्य कर्मणो भुक्तफलस्य अवशेषः कश्चिदनुशयो नाम भाण्डानुसारि स्नेहवत् । यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते भाण्डानुसार्येव कश्चित् स्नेहविशेषोऽवतिष्ठते तथा अनुशयोऽपि इति ॥ ब्रह्मसूत्रशाङ्करभाष्ये ३-१-८