भारति मामव...
भारति मामव...
भारति मामव भगवति भैरवि
भार्गवि शाम्भवि गौलाङ्कसुन्दरि ! ॥ भारति ॥
निरवधिसुखदायिके विद्यानायिके
निरतिशयानन्त-फलप्रदायिके । ॥ भारति ॥
सरसिज-मृदुतम-समयुग-चरणे
सरसीरुहासने शरदिन्दुवदने
करधृत-वरवीणा-पुस्तक-कमले
- ति.गो. अनन्तसुब्रह्मण्यम्