भारविः
भारवेः जन्मनाम दामोदरः |एतस्य पिता नारायणस्वामी | दामोदरः चालुक्यराजस्य विष्णुवर्धनस्य मित्रम् आसीत् | एषः गुङ्गराजस्य दुर्विनीतस्य आस्थाने, पल्लवराजस्य सिंहविष्णो आस्थाने च कञ्चत् कालम् आसीत् इत्यपि ज्ञायते |क्रि श षष्ठे शतके भारविः आसीत् | 'किरातार्जुनीय' भारवेः सुविख्यातं काव्यम् | महाभारते विद्यामानम् एव कथावस्तु स्वीकृत्य भारविः एतत् महाकाव्यं रचितवान् अस्ति | विशिष्टार्थगर्भितानां वाक्यानां प्रयोगे भारविः अत्यन्तं निपुणः |'हितं मनोहारि च दुर्लभं वचः', 'सहसा विदधीत न क्रियाम्' इत्यादयः तस्य प्रयोगाः एतम् अभिप्रायं समर्थयन्ति |'भारवेः अर्थगौरवम्' इति उक्तिः अपि विमर्शकलोके प्रसिध्दा | एकमेव महाकाव्यं लिखित्वा अपि भारविः स्वकवित्वेन, पाण्डित्येन, वर्णनकौशलेन च कविप्रपञ्चे विशिष्टं स्थानं प्राप्तवान् |
किरातार्जुनीय
सम्पाद्यताम्- न नोननुन्नो नुन्नोनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेन नुन्ननुन्ननुत् ॥
- देवाकानिनि कावादे
वाहिकास्वस्वकाहि वा ।
काकारेभभरे का का
निस्वभव्यव्यभस्वनि ॥
- विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः ।
विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः ॥
बाह्यसंबन्धनानि
सम्पाद्यताम्