भिक्षुताडितश्वानन्यायः

एकदा एकः शुनकः श्रीरामस्य समीपम् आगतः । तस्य शरीरं रक्तमयम् आसीत् । कारणे पृष्टे तेन कथितं यत् एकः भिक्षुकः तं ताडितवान् इति । भिक्षुकम् आनाय्य कारणे पृष्टे तेन कथितं – “यत्र भिक्षार्थम् अहं गच्छामि तत्र मया सह आगतः अयं शुनकः सर्वदा भषति कोलाहलं च जनयति । तेन च जनाः पीडिताः भूत्वा मह्यं भिक्षां न यच्छन्ति । अतः त्रस्तेन मया शुनकोऽयं ताडित” इति । तदा शुनकः कथितवान्- ‘महाराज पूर्वजन्मनि अहं कालाञ्जनपर्वतस्योपरि वर्तमाने मन्दिरे पूजकः आसम् । तदा देवब्राह्मणानां कृते रक्षितम् अन्नादिकं भक्षयामि स्म । तेन शुनकजन्म प्राप्तवान् । मां ताडितवतः अस्यापि भिक्षुकस्य मन्दिरपूजकजन्म भवतु” इति । राज्ञा तथा कृतम् । एवं शुनकः श्रीरामदर्शनं प्राप्य काशींगतः कालान्तरे मुक्तः च अभवत् ॥