भिद्यते हृदयग्रन्थिः...

भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ - मुण्डकोपनिषत् २-२-९

तस्मिन् परावरे आत्मनि विज्ञाते सति, हृदयस्य ग्रन्थिः भिद्यते,
सर्वसंशयाः छिद्यन्ते, अस्य सर्वकर्माणि क्षीयन्ते च ।

फलयुगोऽयम् । सर्वस्यापि कर्मणः किं फलम् ? प्रयोजनं किम् ?
इति पृच्छन्ति । तथैव आत्मज्ञानेन प्रयोजनं किम् ? इति चेत्,
त्रीणि फलानि भवन्ति इति श्रुतिः घोषयति । अयं परावरः कारणकार्यरूपः
आत्मा अहमेव इति ईदृशेन आत्मज्ञानेन त्रीणि फलानि भवन्ति ॥

हृदयस्य मनसः ग्रन्थिः भिद्यते । अविद्यानिमित्ताः ग्रन्थिवत् सुबद्धाः
कामाः सम्पूर्णतया नश्यन्ति । अनन्तरं न कोऽपि संशयः अस्य ज्ञानिनः
अवशिष्यते । आत्मानं निस्संशयं विदितवतः संशयाः विनिवर्तन्ते ।
तथा कर्मदाह एव तृतीयं फलम् । पुनर्जन्मनः कारणभूतानि कर्माणि
सर्वथा भस्मीक्रियन्ते । ज्ञातं वा ज्ञानस्य फलत्रयम्?