शंबरनामकेन राक्षसेण भीम – भास –दृढ- नामकाः त्रयः राक्षसाः निर्मिताः । योग्यकाले ते ज्ञानं प्राप्य राक्षसयोनितः सद्गतिं प्राप्तवन्तः इति एका कथा योगवासिष्ठे विद्यते । एतद्विपर्ययेण दामव्यालकटनामकाः शक्तिमन्तः स्वशक्तिम् अज्ञात्वा मशकयोनिं प्राप्तवन्तः इति तत्रैव दत्तम् |

तुल्यः –दामव्यालकटन्यायः योगवासिष्ठे ४-३४-३६

"https://sa.wikiquote.org/w/index.php?title=भीमभासदृढन्यायः&oldid=10647" इत्यस्माद् प्रतिप्राप्तम्