भूतं भवद् भविष्यदिति...

भूतं भवद् भविष्यदिति सर्वमोङ्कार एव । - माण्डूक्योपनिषत् १

भूतं, वर्तमानं, भविष्यत् इति सर्वम् ओङ्कार एव ।

कालदेशादिकं सर्वम् ओङ्कार एव । इयं माण्डूक्योपनिषत् ‘ओङ्कारः ब्रह्मैव’ इत्युपदिशति ।
न हि ओङ्कारो नाम केवलम् अकार उकार मकारात्मकं त्र्यक्षरं वर्णमात्रम् । किं तु परिपूर्णं
ब्रह्मैव ओङ्कारः । ओङ्कारस्य ब्रह्मणश्च अत्र अभेदः उपदिश्यते । ओङ्कार एव ब्रह्म, ब्रह्मैव च ओङ्कारः ॥

भूतं, भवत्, भविष्यत् इति कालत्रयम्; तत्र अत्र इति देशाः इमौ कालदेशावपि ब्रह्मणः एव जातौ ॥

यद्यपि देशकालौ सर्वप्रपञ्चव्यापकौ तथापि परं ब्रह्म न तौ स्पृशतः । त्रयः कालाः, सर्वे देशाः,
सर्वाणि वस्तूनि च ब्रह्मणो जातानि, ब्रह्मण्येव लीयन्ते इति परमेव ब्रह्म । अभिधानाभिधेय
विलक्षणः ओङ्कारः परब्रह्म । ओङ्कार एव ब्रह्म, ब्रह्मैव च ओङ्कारः । ओङ्कारो नाम देशकालनामरूपातीतं
परं ब्रह्मैव । अमात्रः, अवर्णः, अनक्षरः, अपादः ओङ्कारो ब्रह्मैव ॥

"https://sa.wikiquote.org/w/index.php?title=भूतं_भवद्_भविष्यदिति...&oldid=16536" इत्यस्माद् प्रतिप्राप्तम्