भूशैत्योष्णन्यायः
भूमौ जले च शैत्यं स्वभावतः भवति । अग्नेः संयोगेन तत्रैव उष्णत्वं जायते । एवं क्वचित् कश्चित् धर्मः आरोपितः भवति चेदपि सः नित्यः न भवतीति भावः ।
यथा – उष्णत्वमग्न्यातपसंप्रयोगात्
शैत्यं हि यत् सा प्रकृतिर्जलस्य । रघुवंशे ५.५४
तुल्यौ – जलौष्ण्यन्यायः, वायुशैत्योष्ण्यन्यायः