भोक्ता भोग्यं प्रेरितारं...

भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् । - श्वेताश्वतरोपनिषत् १-१२

भोक्ता, भोग्यं, प्रेरिता च – इति एतत् त्रयमपि एतद् ब्रह्मैव इति जानन् एव ज्ञानी भवति ।

अद्वितीयमपि परं ब्रह्म नानानामरूपैः अवभासते । एक एव सन्नपि समुद्रः अनेकैः नामरूपैः अवभासते
खलु ? अयं मन्त्रः इमं विशालं प्रपञ्चं त्रेधा विभजते । भोक्ता, भोग्यं, प्रेरिता च इति हि त्रेधा विभागः ।
भोक्तारो जीवाः, भोग्यानि नाम भोगविषयाः पदार्थाः, प्रेरिता इति प्रेरकः ईश्वरः ॥

कर्तारो जीवाः इष्टानिष्टफलप्राप्त्यर्थम् अविद्यादोषेण कर्माणि कुर्वन्ति । अनन्तरं ते एव भोक्तारो भवन्ति ।
भोगान् अनुभवन्तः, कर्माणि कुर्वन्तः, दुःखसागरे पतन्ति इति यत् स एव सकलजीवानां सहजो गुणः ।
सकलानि भोग्यवस्तूनि भोक्तुः अधीनानि भवन्ति । भोक्तृभोग्ययोः संयोजकः प्रेरिता सर्वज्ञ ईश्वरः ।
परमार्थतः इदं त्रयमपि परब्रह्मैव । एकमेव ब्रह्म त्रेधा अवभासते ॥