मक्षिकातन्तुनाभन्यायः

तन्तुनाभः अत्यन्तचतुरतया स्वशरीरादेव तत्नुं निर्माय स्वं परितः जालं रचयति । तस्मिन् जाले मक्षिकादयः बद्धाः भवन्ति तदा सः ऊर्णनाभः सहसा उत्पत्य तान् कीटान् भक्षयति । एवं लोभी जनः कपटजालं प्रसार्य अन्यान् वञ्चयति इति भावः ।