मणिप्रदीपप्रभान्यायः

क्वचित् एकस्य मन्दिरस्य अन्तः दीपः स्थापितः । सः ज्वलति स्म दूरतः तस्य दीपस्य वर्तुलाकारं प्रकाशम् अवलोक्य जनानां मणिभ्रमः भवितुम् अर्हति स्म । तथा तस्य समीपस्थे मन्दिरान्तरे एकं रत्नम् आसीत् तस्यापि वर्तुलाकारप्रकाशेन मणिज्ञानं भवति स्म । एकदा द्वौ जनौ दूरात् एतं प्रकाशम् अवलोक्य रत्नभ्रमेण तत्र धावित्वा गतौ । एकः रत्नं प्राप्तवान् अपरः दीपं प्राप्तवान् न रत्नम् ।

एवं मणिप्रभायाः आधारेण जाता मणिभावना संवादिभ्रम इति दीपप्रभायाः आधारेण जाता मणिभावना च विसंवादिभ्रम इति कथ्यते ।

यथा – स्वयं भ्रमोऽपि संवादी यथा सम्यक्फलप्रदः ।

ब्रह्मतत्त्वोपासनाऽपि तथा मुक्तिफलप्रदा ॥ (सा. ४५८)