यदि तुलायन्त्रस्य आधारेण मण्डूकानां तोलनाय प्रयत्नः क्रियते चेत् सः प्रयत्नः कदापि सफलः न भवेत् । यतः मण्डूकाः कदापि स्थिराः न भवन्ति एकस्मात् प्रदेशात् प्रदेशान्तरम् कूर्दन्ति अतः तेषां तोलनम् अशक्यं कर्म ।

एवं किमपि अनिश्चितं कर्म घटितं चेत् तस्य वर्णनार्थम् अस्य प्रयोगः क्रियते ।

"https://sa.wikiquote.org/w/index.php?title=मण्डूकतोलनन्यायः&oldid=10674" इत्यस्माद् प्रतिप्राप्तम्