१. मण्डूकाः उत्कूर्द्य उत्कूर्द्य अग्रे गच्छन्ति तदा मध्ये वर्तमानं प्रदेशं त्यजन्ति । एवं मध्ये वर्तमानं विषयं परित्याज्य यः विषयान्तरं गच्छति तस्य प्रवृत्तिः मण्डूकप्लुतिः । इव भवति । २. व्याकरणशास्त्रे अस्य बहुधा प्रयोगः कृतः । किमपि विशिष्टं प्रयोजनं संपादयितुं यदा सूत्रं सूत्राणि वा परित्यज्य अनन्तरसूत्रस्य ग्रहणं क्रियते तत्र अस्य न्यास्य प्रयोगो भवति । यथा – १. परिक्रयणे संप्रदानम् अयतरस्याम् अष्टाध्यायी १-४-४४, २. आधारोऽधिकरणम् (“१-४-४५) ३. अधिशीङ्स्थासां कर्म (“१-४-४६), ४. अभिनिविशश्च (“ १-४-४७) एतेषु सूत्रेषु प्रथमसूत्रगतम् अन्यतरस्याम् इति पदम् अव्यवहितोत्तरसूत्रे न अनुवर्तते परं चतुर्थे अभिविनिशश्च इति सूत्रे अनुवर्तते मण्डूकप्लुतिन्यायेन । (सा. ४३९)

"https://sa.wikiquote.org/w/index.php?title=मण्डूकप्लुतिन्यायः&oldid=10676" इत्यस्माद् प्रतिप्राप्तम्