मतिश्च मे सुमतिश्च मे यज्ञेन कल्पन्ताम् ॥

मतिश्च मे सुमतिश्च मे यज्ञेन कल्पन्ताम् ॥ (यजुर्वेदः १८-११) सम्पाद्यताम्

सुबुद्धिः उत्तमनिश्चयाश्च यज्ञेन मयि जाताः भवन्तु ।

मानवः बुद्धिजीवी । समर्थतया तस्याः वर्धनम् उपयोगं च यदि कुर्यात् तर्हि सर्वेषां प्राणिनाम् अपेक्षया सः भवति बुद्धिमान् । मानवजीवने बुद्धिः अत्यावश्यकी, अनिवार्या च ! अस्याः बुद्धेः आधारेण उत्तमाः निश्चयाः सङ्कल्पाः च उद्भवेयुः चेत् जीवनं भव्यं भवेत् । तदा सा सुबुद्धिः उच्यते । एतादृशबुद्धिसङ्कल्पानां प्राप्त्यै 'यज्ञ'मेव साधनं भवति । अग्नेः पुरतः 'स्वाहा' इति कथयद्भिः घृतस्य अर्पणमात्रं यज्ञं न । सर्वम् अपि उत्तमकार्यं भवति यज्ञम् !! क्रियमाणं चिन्तनं मम, मम कुटुम्बस्य परिधिम् अतिरिच्य समाजस्य जगतः हिताय यदि भवेत् तर्हि तत् अत्युत्तमं चिन्तनम् ! मदीयं वचनं कोपतापैः अयुक्तं सत् मनसां संयोजनाय, द्वेषासूयादीनां विनाशाय च भवति चेत् तद्भवति यज्ञम् ! मम कार्यस्य फलेन अनेकेषां जनानां क्षेमः साधितः यदि भवेत् तर्हि तत् भवति

यज्ञम् ! यज्ञं नाम सत्कार्यम् । अस्य फलमेव सुबुद्धिः सत्सङ्कल्पश्च ।