मत्स्यग्राहकः सकण्टकमेव मत्स्यं गृहीत्वा तदनन्तरं मत्स्यं स्वीकरोति कण्टकं च परिहरति । एवं तत्त्वमसि – इत्यस्य महावाक्यस्य लक्ष्यार्थस्य ग्रहणसमये अपि आदौ तस्य उपाधीनाम् अपि ग्रहणं क्रियते परन्तु भागलक्षणया विरुद्धांशस्य परित्यागः क्रियते लक्ष्यार्थस्य च ग्रहणं क्रियते । तस्यापत्यम् इत्यस्य पाणिनीयसूत्रस्य (४-१-९३) भाष्ये अयं न्यायः प्रयुक्तः । यथा कश्चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् स यावत् आदेयं तावत् आदायं तावत् आदाय शकलकण्टकान् उत्सृजति ॥

"https://sa.wikiquote.org/w/index.php?title=मत्स्यकण्टकन्यायः&oldid=10682" इत्यस्माद् प्रतिप्राप्तम्