मधुकरराज –मधुमक्षिकान्यायः

यथा मधुमक्षिकाः मधुकरराजस्य आज्ञां पालयन्ति तथा सर्वाणि इन्द्रियाणि चित्तस्य आज्ञां पालयन्ति । अयम् अर्थः योगशास्त्रे विस्तारेण वर्णितः । भगवद्गीतायाम् अपि ‘इन्द्रियेभ्यः परं मनः’ इत्यत्र (३-४२) अयम् एव अर्थः दृश्यते ।