मनसा सततं स्मरणीयम्...


मनसा सततं स्मरणीयम्

वचसा सततं वदनीयम्
लोकहितं मम करणीयम् ॥ ॥ लोकहितं ॥


न भोगभवने रमणीयम्
न च सुखशयने शयनीयम् ।
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ॥ ॥१॥


न जातु दु:खं गणनीयम्
न च निजसौख्यं मननीयम् ।
कार्यक्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम् ॥ ॥२॥


दु:खसागरे तरणीयम्
कष्टपर्वते चरणीयम् ।
विपत्तिविपिने भ्रमणीयम्
लोकहितं मम करणीयम् ॥ ॥३॥


गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे ।
तत्र मया सञ्चरणीयम्

लोकहितं मम करणीयम् ॥४॥
- डा श्रीधर भास्कर वर्णेकर


"https://sa.wikiquote.org/w/index.php?title=मनसा_सततं_स्मरणीयम्...&oldid=15187" इत्यस्माद् प्रतिप्राप्तम्