मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्पः आकाशात्मा सर्वकर्मा
सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदम् अभ्यात्तः अवाकी अनादरः ।
इति ह स्म आह शाण्डिल्यः शाण्डिल्यः ॥ - छान्दोग्योपनिषत् ३-१४-२

आत्मा मनोमयः, प्राणशरीरः, भारूपः, सत्यसंकल्पः, आकाशात्मा, सर्वकर्मा,
सर्वकामः, सर्वगन्धः, सर्वरसः; आत्मा इदं सर्वम् अभ्यात्तः । आत्मा अवाकी
अनादरः इति उपासीत । इति शाण्डिल्यः महर्षिः आह ॥

उपर्युक्तसकलगुणैः युक्तः आत्मा इति परमात्मानं श्रद्धया उपासकः उपासीत ।
मन एव आत्मनः प्रधानभूत उपाधिः । मनोद्वारेणैव आत्मनः दर्शनं भवेत् ।
मनश्च आत्मनः समीपतमम् । तस्माद् आत्मा मनोमयः । एवमेव प्राणोपाधिकत्वात्
आत्मा प्राणशरीरश्च भवति । अयमात्मा चैतन्यस्वरूपः, सत्यसङ्कल्पश्च ।
अयमात्मा आकाशवत् सूक्ष्म इति आकाशात्मा । सर्वकामः, सर्वकर्मा, सर्वगन्धः,
सर्वरसः, सर्वव्यापकश्चात्मा वागादीन्द्रियरहितत्वात् आत्मा अवाकी ।
क्रियारहितश्च आत्मा । एवमात्मा उपास्यः ॥

"https://sa.wikiquote.org/w/index.php?title=मनोमयः_प्राणशरीरो...&oldid=16374" इत्यस्माद् प्रतिप्राप्तम्