मनो ब्रह्मेत्युपासीत...

मनो ब्रह्मेत्युपासीत इत्यध्यात्मम् ॥ - छान्दोग्योपनिषत् ३-१८-१

मनः ब्रह्म इति उपासीत् । इदम् अध्यात्मोपासनम् ॥

लौकिकव्यवहारेषु इन्द्रियाणामेव प्राबल्यम्, तत्रापि चक्षुरेव प्रधानम् । चक्षुषि सति प्रपञ्चः, चक्षुरभावे
सर्वं शून्यमेव । वेदान्तेषु तु मन एव प्रधानम् । मनसैव वेदवेदान्तवाक्यानां सन्देशग्रहणम्; लोकेऽपि
खलु मनसः प्रधानं स्थानं नूनम् अस्त्येव । ‘मनसि सति महादेवः’, ‘यथामनः तथा महादेवः’ इति हि वदन्ति ॥

परं ब्रह्म समस्तमेव विश्वं व्याप्नोति । परब्रह्मणः उपासनानि आध्यात्मिकतया, आधिभौतिकतया,
आधिदैविकतया च त्रिषु स्थानेषु उपनिषदः उपदिशन्ति । प्रकृते ‘मनः एव ब्रह्म इत्युपासीत’ इति अयं
मन्त्रः उपदिशति । यद्यपि अचेतनं मनः, चिन्मात्रं तु ब्रह्म, तथापि मनोब्रह्मणोः सादृश्यं भवति । ब्रह्म
सूक्ष्मम्, मनोऽपि सूक्ष्मम्; ब्रह्म व्यापकम्, मनश्च व्यापकम्; ब्रह्म अनन्तम्, मनश्च अनन्तम्; ब्रह्म
सर्वज्ञम्, मनश्च सर्वज्ञम्-इत्यतः मन एव ब्रह्म इत्युपासीत । मनसि ब्रह्मभावः कर्तव्यः ॥